Srimad Bhagwad Gita recital and meaning, Art of Living video, Chapter 1, shlokas 11 onwards

Anisha
Views: 2428

Srimad Bhagwad Gita classes with Kashi bhaiya (Dinesh Kashikar ji) at The Art of Living International center, Bangalore. Chapter 1, shlokas 11 onwards.

Sanskrit text of Bhagwad Gita

अयनेषु च सर्वेषु यथाभागमवस्थिताः।

भीष्मेवाभरक्षंतु भवन्तः सर्व एव हि॥ ११

तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः।

सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान्‍॥१२

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत॥१३

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।

माधवः पाण्डवाश्चैव दिव्यौ शंखौ प्रदध्मतुः॥१४

पाञ्चअजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रं दध्मौ महाशंख भीमकर्मा वृकोदरः॥१५

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।

नकुलः सहदेवश्च सुघोष मणिपुष्पकौ॥१६

काश्यश्च परमेष्वासः शिखण्डी च महारथः।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।

सौभद्र्श्च महाबाहुः शंखान्दध्मुः पृथक‍ पृथक॥१८

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत।

नभश्च पृथिवीञ्चैव तुमुलोऽभ्यनुनादयन॥१९

अथ व्यवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२०

हृषिकेशं तदा वाक्यमिदमाह महीपते।

अर्जुन उवाच।

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत॥२१

यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान।

कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे॥२२

योत्स्यमानान्वेक्षेऽहं य एतेऽत्र समागताः।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥२३

सञ्जय उवाच।

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम॥२४

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम।

उवाच पार्थ पश्यैतान्सम्वेतान कुरुनिति॥२५

तत्रापश्यत स्थितान पार्थः पितामहान।

आचार्यान मातुलान भ्रातृन पुत्रान पौत्रान सखींस्तथा॥

श्वशुरान सुहृदश्चैव सेनयोरुभयोरपि॥२६

तान समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान।

कृपया परयाविष्टो विषीदन्निदमब्रवीत॥२७

अर्जुन उवाच।

दृष्ट्मेवं स्वजनं कृष्ण युयुत्सुं समुपस्थितम।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति॥२८

वेपथुश्च शरीरे मे रोमहर्षश्च जायते।

गाण्डीवं स्रंसते हस्तात्त्वक चैव परिदह्यते॥२९

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।

निमित्तानि च पश्यामि विपरीतानि केशव॥३०

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।

न कांक्षे विजयं कृष्णं न च राज्यं सुखानि च॥३१

किं नो राज्येन गोविन्द किं भोगैरजीवितेन वा।

येषामर्थे कांक्षितं नो राज्यं भोगा सुखानि च॥३२

त इमेऽवस्थिता युद्धे प्राणांस्त्यकत्वा धनानि च।

आचार्याः पितरः पुत्रास्तथैव च पितामहाः॥३३

मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा।।३४

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥३६

तस्मन्नार्हा वयं हन्तुं धार्तराष्ट्रान स्वबान्धवान।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम॥३८

कथं न ज्ञेयम्स्माभिः पापादस्मान्निवर्तितुम।

कुलक्षयकृतं दोषं प्रपश्यद्भिजनार्दन॥३९

कुलक्षये प्रणश्यन्ति कुलध्रमाः सनातनाः।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥४०

अधर्माभिभवात कृष्ण प्रदुष्यन्ति कुलस्त्रियः।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकर॥४१

अंकरो नरकायैव कुलघ्नानां कुलस्य च।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।

नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४

अहो बत महत्पापं कर्तुं व्यव्सिता वयम।

यदराज्यसुखलोभेन हन्तुं स्वजन्मुद्यताः॥४५

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत॥४६

सञ्जय उवाच।

एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत।

विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७

इति अर्जुनविषाद्योगो नाम प्रथमोऽध्यायः।१

 




blog comments powered by Disqus



Sri Devraha Baba Samadhi, Vrindavan Photo Journal

Prehistoric cave art and tribes of Vindhyachal, India

Find us on Facebook