वसुदेवसुतं देवं कंसचाणूरमर्दनम्देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् , #आदिगुरू शंकराचार्य


आप भी हमारे साथ यह अवश्य पढ़ कर गायें! जय गुरुदेव! संस्कृत में होने पर भी इसे गाना सरल है| जरूर गायें !
वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् । 1 ।
आतसीपुष्पसंकाशम् हारनूपुरशोभितम् रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम् । 2 ।
कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम् विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम् । 3 ।
मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम् बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम् । 4 ।
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम् यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् । 5 ।
रुक्मिणीकेलिसंयुक्तं पीतांबरसुशोभितम् अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम् । 6 ।
गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम् श्री निकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् । 7 |
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम् शङ्खचक्रधरं देवं कृष्णं वंदे जगद्गुरुम् । 8 ।
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् कोटिजन्मकृतं पापं स्मरणेन विनष्यति । 9 ।
Sharing a Sanskrit bhajan from satsang at home over the years. Grateful for our rich heritage! Vande Guru Paramparam!
Singer: Anisha Sharma
वसुदेवसुतं देवं कंसचाणूरमर्दनम्देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् , #आदिगुरू शंकराचार्य
Views: 659



blog comments powered by Disqus



6 Flowering shrubs of India that are not eaten by cattle